Catuḥślokī of Sri Yamunacharya

  1. social {

margin-bottom: 8px; opacity:0.65; filter:alpha(opacity=65); /* For IE8 and earlier */ }

  1. social:hover

{

opacity:1.0;
filter:alpha(opacity=100); /* For IE8 and earlier */

} div .plusone, .twitter, .fb-like { font-size: 1px; display: inline-block; } div .fb_reset { display: inline; }

भगवद् यामुनमुनिभिः अनुगृहीता

॥ चतुःश्लोकी ॥

कान्तस्ते पुरुषोत्तमः फणिपतिः शय्यासनं वाहनं वेदात्मा विहगेश्वरो यवनिका माया जगन्मोहिनी ।
ब्रह्मेशादिसुरव्रजः सदयितस्त्वद्दासदासीगणः श्रीरित्येव च नाम ते भगवति ! ब्रूमः कथं त्वां वयम् ॥१॥

यस्यास्ते महिमानम् आत्मन इव त्वद्वल्लभो ऽपि प्रभुर्नालं मातुम् इयत्तया निरवधिं नित्यानुकूलं स्वतः ।
तां त्वां दास इति, प्रपन्न इति च स्तोष्याम्यहं निर्भयो लोकैकेश्वरि लोकनाथदयिते दान्ते दयां ते विदन् ॥२॥

ईश त्वत्करुणानिरीक्षणसुधासन्धुक्षणाद्रक्ष्यते नष्टं प्राक् तदलाभतस्त्रिभुवनं संप्रत्यनन्तोदयम् ।
श्रेयो न ह्यरविन्दलोचनमनःकान्ताप्रसादादृते संसृत्यक्षरवैष्णवाध्वसु नृणां संभाव्यते कर्हिचित् ॥३॥

शान्तानन्तमहाविभूति परं यद्ब्रह्म रूपं हरेर्मूर्तं ब्रह्म ततो ऽपि तत्प्रियतरं रूपं यदत्यद्भुतम् ।
यान्यन्यानि यथासुखं विहरतो रूपाणि सर्वाणि तान्याहुः स्वैरनुरूपरूपविभवैर्गाढोपगूढानि ते ॥४॥

॥ श्रीमते यामुनमहामुनये नमः ॥